Thursday, May 24, 2018

Radhopanishad - Sanskrit


Courtesy: https://sanskritdocuments.org/doc_upanishhat/rAdhopaniShat.html?lang=sa
॥ राधोपनिषत् ॥  प्रथमः प्रपाठकः    ॐ  अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः ? क्वासौ कृष्णो  योऽयं मम भ्रातेति ? तस्य का निष्ठा ब्रूहीति ।    सा वै ह्युवाच । राम शृणु-भूर्भुवः स्वर्महर्जनस्तपः  सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं  एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति  अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं  वैकुण्ठः ।    स ह पृच्छति-कथं शून्यमण्डले निरालम्बने वैकुण्ठ इति ?     साऽनुयुक्ता-पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति ।  तस्यानन्तरोमकूपेष्वनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि तस्य  सप्तकोटिपरिसहस्रपरिमिताः फणाः तदुपरि वैकुण्ठो विष्णुलोक इति ।  रुद्रलोकः शिववैकुण्ठ इति । दशकोटियोजनविस्तीर्णो रुद्रलोकः ।  तदुपरि विष्णुलोकः । सप्तकोटियोजनविस्तीर्णो विष्णुलोकः । तदुपरि  सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णम् । तदुपरि कृष्णस्य स्थानं  गोकुलाढ्यं माथुरमण्डलं महत् पदं सुधामयसमुद्रेणावेष्टितमिति ।  तत्राष्टदलकेसरमध्ये मणिपीठे सप्तावरणकमिति ।    स पृच्छति-किं रूपं ? किं स्थानं ? किं पद्मं ? किमन्तःकेसरः  ? किमावरणम् ?    इत्युक्ते साऽनुयुक्ता-गोकुलाढ्ये माथुरमण्डले वृन्दावनमध्ये  सहस्रदलपद्मे षोडशदलमध्ये अष्टदलकेसरे गोविन्दोऽपि  श्यामपीताम्बरो द्विभुजो मयूरपिञ्छशिराः वेणुवेत्रहस्तो निर्गुणः  सगुणो निराकारः साकारो निरीहः स चेष्टते विराजत इति । पार्श्वे  राधिका चेति । तस्या अंशो लक्ष्मीदुर्गाविजयादिशक्तिरिति । पश्चिमे  सम्मुखे ललिता । वायव्ये श्यामला । उत्तरस्मिन् श्रीमती । ऐशान्यां  हरिप्रिया । पूर्वस्मिन् विशाला । अग्नेय्यां श्रद्धा । याम्यां पद्मा ।  नैरृत्यां भद्रा । षोडशदले अग्रे चन्द्रावती । तद्वामे चित्ररेखा ।  तत्पार्श्वे चित्रकरा । तत्पार्श्वे मदनसुन्दरी । तत्पार्श्वे श्रीमदा ।  तत्पार्श्वे शशिरेखा । तत्पार्श्वे कृष्णप्रिया । तत्पार्श्वे वृन्दा ।  तत्पार्श्वे मनोहरा । तत्पार्श्वे योगनन्दा ।  तत्पार्श्वे परानन्दा । तत्पार्श्वे प्रेमानन्दा । तत्पार्श्वे सत्यानन्दा ।  तत्पार्श्वे चन्द्रा । तत्पार्श्वे किशोरीवल्लभा । तत्पार्श्वे करुणाकुशला  इति । एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति ।   इति वेदवचनं भवति । इति वेदवचनं भवति ।  इति वेदवचनं भवति ।    मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण  नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति ॥    इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां प्रथमः प्रपाठकः ॥        द्वितीयः प्रपाठकः    ॐ  साऽनुयुक्ता-तस्य बाह्येषु शतदलपद्मपत्रेषु योगपीठेषु  रासक्रीडानुरक्ता गोप्यस्तिष्ठन्ति । एतच्चतुर्द्वारं  लक्षसूर्यसमुज्ज्वलम् । तत्र द्रुमाकीर्णम् । तत् प्रथमावरणे  पश्चिमे सम्मुखे स्वर्णमण्डपे देवकन्या । द्वितीये सुदामादि । तृतीये  किङ्किण्यादि । चतुर्थे लवङ्गादि । पञ्चमे कल्पतरोर्मूले उषा  तत्सहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति  द्वारपालाः । एतद् बाह्यां राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति ।  ईश्वरस्य दर्शनयोग्यं भवति । यत्र स्नात्वा नारद ईश्वरस्य  नित्यस्थलसामीप्ययोग्यो भवति ।    राधाकृष्णयोरेकमासनम् । एका बुद्धिः । एकं मनः । एकं ज्ञानम् ।  एक आत्मा । एकं पदम् । एका आकृतिः । एकं ब्रह्म । तस्य समं  हेममुरलीं वादयन् हेमस्वरूपामनुरागसंवलितां कल्पतरोर्मूले [आस्ते ।]  सुरभिविद्या अक्षमाला श्रुतिरिव परमा सिद्धा सात्त्विकी ।    *शुद्धा सात्त्विकी गुणातीता स्नेहभावरहिता । अत एव द्वयोर्न भेदः ।  कालमायागुणातीतत्वात् । तद् एव स्पष्टयति अथेति । अथानन्तरं  मङ्गले वा । अथ वा श्रीवृन्दावनमध्ये ऋग्यजुःसामस्वरूपम् ।  ऋगात्मको मकारः । यजुरात्मक उकारः । श्रीरामः सामात्मकोऽपि अकारः ।  श्रीकृष्णः अर्धमात्रात्मकोऽपि । यशोदा इव बिन्दुः । परब्रह्म  सच्चिदानन्दानन्दराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन  इव तत् सच्चिदानन्दामृतं कथ्यते । तल्लक्षणं यत्  प्रणवं ब्रह्मविष्णुशिवात्मकमिच्छाज्ञानशक्तिनिष्ठं  कायिकवाचिकमानसिकभावं सत्त्वरजस्तमस्वरूपं  सत्यत्रेताद्वापरानुगीतम् । द्वापरस्य पश्चाद् वर्तते कलिः ।  एतच्चतुर्युगेषु गीयते । तद् भूर्भुवःस्वर्लक्षणमोङ्कार एव ।  यच्चान्यद् अतिरिक्तं कालातीतं तद् अप्योङ्कार एव । सर्वं ह्येतद्  ब्रह्म आत्मा सोऽहमस्मि इति धीमहि चिन्तयेमहि । ``आदित्यो वा एष  एतन् मण्डलं तपति'' इति यत् श्वेताख्यं श्वेतद्वीपनाम स्थानं  तुरीयातीतं गोकुलमथुराद्वारकाणां तुरीयमेतद् दिव्यं वृन्दावनमिति  पुरैवोक्तं सर्वं सम्पत्सम्प्रदायानुगतं यत्र ॥*    इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां द्वितीयः प्रपाठकः ॥ २॥        तृतीयः प्रपाठकः    ॐ  अथानन्तरं  भद्रश्रीलोहभाण्डीरमहातालखदिरवकुलकुमुदकाम्यमधुवृन्दावनानि  द्वादशवनानि । कालिन्द्याः  पश्चिमे सप्तवनानि पूर्वस्मिन् पञ्चवनानि उत्तरस्मिन् गुह्यानि सन्ति ।  मथुरावनमधुवनमहावनखादिरवनभाण्डीरवननन्दीश्वर-  वननन्दवनानन्दवनखाण्डववनपलाशवनाशोकवनकेतक-  वनद्रुमवनगन्धमादनवनशेषायिवनश्यामायुवनभुज्युवनदधि-  वनवृषभानुवनसङ्केतवनदीपवनरासवनक्रीडावनोत्सुकवनान्येतानि  चतुर्विंशतिवनानि नित्यस्थलानि नानालीलयाधिष्ठाय कृष्णः  क्रीडति । [तानि वनानि] वसन्तऋतुसेवितानि मन्दादिपवनयुक्तानि  [सन्ति]यत्र दुःखं नास्ति सुखं नास्ति जरा नास्ति मरणं  नास्ति क्रोधो नास्ति, तत्र पूर्णानन्दमयः श्रीकैशोरकृष्णः  शिखण्डिदललम्बितत्रियुमगुञ्जावतंसमणिमयकिरीटशिराः  गोरोचनातिलकः कर्णयोर्मकरकुण्डलो वन्यस्रग्वी  मालतीदामभूषितशरीरः करे कङ्कणं बाहौ केयूरं पादयोः  किङ्किणीं कट्यां पीताम्ब[रं च धारयन्] गम्भीरनाभिकमलः  सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्मो महाविष्णु[रास्ते] ।  एवंरूपं कृष्णचन्द्रं चिन्तयेन् नित्यशः सुधीः ॥ इति ॥    तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता  प्रसन्नाशेषलावण्यसुन्दरी । अस्मदादीनां जन्म तदधीनं  अस्यांशाद् बहवो विष्णुरुद्रादयो भवन्ति । एवम्भूतस्यागाधमहिम्नः  सुखसिन्धोरुत्पन्नमिति मानसपूजया ध्यानेन कीर्तनेन स्तुत्या मानसेन  सर्वेण नित्यस्थलं प्राप्नोति ।    नान्येनेति । नान्येनेति । नान्येनेति ।   इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं  भवति ॥    इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां तृतीयः प्रपाठकः ॥ ३॥        चतुर्थः प्रपाठकः    ॐ  अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद् ब्रह्म ।  यत्र परमसन्न्यासस्वरूपः कृष्णः कल्पपादपः । यत्र  लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावली सरस्वती ललितादिरिति ।  साक्षाद् ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः सुदर्शनो  भक्तश्च । एवं पञ्चधा विभूतिमिति । यत्र च मथुरा  गोकुलं द्वारका वैकुण्ठपुरी रामपुरी यमपुरी नरनारायणपुरी  कुबेरपुरी गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र  रसातलपातालगङ्गारोहिणीकुण्डममृतकुण्डमित्यादि नानापुरी । यत्रान्नं  सिद्धान्नम् ।    शूद्रादिस्पर्शदोषरहितं ब्रह्मादिसंस्कारापेक्षारहितं यत्र  श्रीजगन्नाथस्य योगमित्यर्थः । ``नाभ्या आसीत्'' इति मन्त्रेण,  ``अन्नपतेऽन्नस्य'' इति मन्त्रेण, ``अन्नाद्याय व्यूहध्वं सोमो  राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन च''  इति मन्त्रेण, ``विश्वकर्मणि स्वाहा'' इति मन्त्रेण, ``आपो ज्योती  रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्'' इति मन्त्रेण, ``पृथिवी  ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा'' इति  मन्त्रेण, ``अन्नं ब्रह्म'' इति श्रुत्या च कैवल्यमुक्तिरुच्यते ।  यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः सिद्धा  भूर्भुवःस्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं  वृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्डपो  विमलादिषोडशचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं  कामधेनुवृन्दं यत्र नृसिंहादयो देवता आवरणानि यत्र न जरा  न मृत्युर्न कालो न भङ्गो न जयो न विवादो न हिंसा न शान्तिर्न  स्वप्न एवं लीलाकामशरीरी स्वविनोदार्थं भक्तैः सहोत्कण्ठितैस्तत्र  क्रीडति कृष्णः ।    एको देवो नित्यलीलानुरक्तो  भक्तव्यापी भक्तहृद्यन्तरात्मा ।  कर्माध्यक्षः सर्वभूताधिवासः  साक्षी चेता केवलो निर्गुणश्च ॥    मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण  नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति ।    इति वेदवचनं भवति । इति वेदवचनं भवति ।  इति वेदवचनं भवति ॥    इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां चतुर्थः प्रपाठकः ॥ ४॥    इति राधोपनिषत् समाप्ता ॥

No comments:

Post a Comment